अथ चन्द्रकवचम्
श्रीचंद्रकवचस्तोत्रमंत्रस्य गौतम ऋषिः I अनुष्टुप् छंदः I
चंद्रो देवता I चन्द्रप्रीत्यर्थं जपे विनियोगः I
समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् I
वासुदेवस्य नयनं शंकरस्य च भूषणम् II १ II
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् I
शशी पातु शिरोदेशं भालं पातु कलानिधिः II २ II
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः I
प्राणं क्षपाकरः पातु मुखं कुमुदबांधवः II ३ II
पातु कण्ठं च मे सोमः स्कंधौ जैवा तृकस्तथा I
करौ सुधाकरः पातु वक्षः पातु निशाकरः II ४ II
हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः I
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः II ५ II
ऊरू तारापतिः पातु मृगांको जानुनी सदा I
अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा II ६ II
सर्वाण्यन्यानि चांगानि पातु चन्द्रोSखिलं वपुः I
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् II
यः पठेच्छरुणुयाद्वापि सर्वत्र विजयी भवेत् II ७ II
II इति श्रीब्रह्मयामले चंद्रकवचं संपूर्णम् II